परिषद् गीत

विश्वमखिलमुद्धर्तुममी निर्मिता वयम् ।
मानवं समुद्धर्तुममी प्रेषिता वयम् ।
हरिणा निर्मिता वयम् ॥

सङ्कटाद्रिभिदुरं धैर्यं धार्यमनिशमिदमिह कार्यम् ।
मातरं प्रतिष्ठां नेतुं तनुभृतो वयम् ।
प्रभुणा प्रेषिता वयम् ॥

मातृभक्तिरेकं ध्येयं, तत्कृते शरीरं देयम् ।
क्षुद्रलालसापरिमुक्ता: सेवका वयम् ।
प्रभुणा प्रेषिता वयम् ॥

जानते भरतभुवि लोका:, आत्मतत्त्वमिह गतशोका: ।
इत्यवेत्य जगदुद्धरणे योजिता वयम् ।
प्रभुणा प्रेषिता वयम् ॥

ईश्वर: स्फुरति न: स्वान्ते अज्ञानान्धतमसस्यान्ते ।
तस्य कार्यमधुना कर्तुं सोद्यमा वयम् ।
प्रभुणा प्रेषिता वयम् ॥

निश्चितं यश: परिपूर्णं लप्स्यतेऽत्र जन्मनि तूर्णम् ।
ईशकार्यकरणे निरता: सन्ततं वयम् ।
प्रभुणा प्रेषिता वयम् ॥